|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.47. अध्यायः 047
Mahabharata - Adi Parva - Chapter Topics
जरत्कारोरुद्वाहः॥ 1 ॥ तस्यां गर्भसंभवः॥ 2 ॥ समयोल्लङ्घनेन क्रुद्धस्य मुनेः तपोर्थं गमनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-47-0x(224)(2001)
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा।
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता॥ 1-47-1(2002)
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम।
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन।
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम॥ 1-47-2(2003)
जरत्कारुरुवाच। 1-47-3x(225)
न भरिष्येऽहमेतां वै एष मे समयः कृतः।
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्॥ 1-47-3(2004)
सौतिरुवाच। 1-47-4x(226)
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति।
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह॥ 1-47-4(2005)
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः।
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्॥ 1-47-5(2006)
ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम्।
जगाम भार्याम दाय स्तूयमानो महर्षिभिः॥ 1-47-6(2007)
शयनं तत्र संक्लृप्तं स्पर्ध्यास्तरणसंवृतम्।
तत्र भार्यासहायो वै जरत्कारुरुवास ह॥ 1-47-7(2008)
स तत्र समयं चक्रे भार्यया सह सत्तमः।
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन॥ 1-47-8(2009)
त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे।
एतद्गृहाण वचनं मया यत्समुदीरितम्॥ 1-47-9(2010)
ततः परमसंविग्ना स्वसा नागपतेस्तदा।
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति॥ 1-47-10(2011)
तथैव सा च भर्तारं दुःखशीलमुपचारत्।
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी॥ 1-47-11(2012)
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा।
भर्तारं वै यथान्यायमुपतस्थे महामुनिम्॥ 1-47-12(2013)
तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः।
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः॥ 1-47-13(2014)
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः।
ततः कतिपयाहस्तु जरत्कारुर्महायशाः॥ 1-47-14(2015)
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्।
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्॥ 1-47-15(2016)
अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा।
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी॥ 1-47-16(2017)
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा।
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्॥ 1-47-17(2018)
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः।
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्॥ 1-47-18(2019)
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति।
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम्॥ 1-47-19(2020)
इति निश्चित्य मनसा जरत्कारुर्भुजंगमा।
तमृषिं दीप्ततपसं शयानमनलोपमम्॥ 1-47-20(2021)
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी।
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति॥ 1-47-21(2022)
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः।
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः॥ 1-47-22(2023)
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो।
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः॥ 1-47-23(2024)
भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्।
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे॥ 1-47-24(2025)
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्।
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः॥ 1-47-25(2026)
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते।
न चाप्यवमतस्येह वासो रोचेत कस्यचित्॥ 1-47-26(2027)
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा।
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्॥ 1-47-27(2028)
अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने।
नावमानात्कृतवती तवाहं विप्रे बोधनम्॥ 1-47-28(2029)
धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्।
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः॥ 1-47-29(2030)
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्।
न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे॥ 1-47-30(2031)
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः।
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे॥ 1-47-31(2032)
इतो मयि गते भीरु गतः स भगवानिति।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि॥ 1-47-32(2033)
इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा।
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा॥ 1-47-33(2034)
बाष्पगद्गदया वाचा मुखेन परिशुष्यता।
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः॥ 1-47-34(2035)
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥ 1-47-35(2036)
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्।
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम॥ 1-47-36(2037)
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः।
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम॥ 1-47-37(2038)
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते।
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्॥ 1-47-38(2039)
संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज।
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये॥ 1-47-39(2040)
इममव्यक्तरूपं मे गर्भमाधाय सत्तम।
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्॥ 1-47-40(2041)
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्।
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः॥ 1-47-41(2042)
अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः।
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः॥ 1-47-42(2043)
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः।
उग्राय तपसे भूयो जगाम कृतनिश्चयः॥ ॥ 1-47-43(2044)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तचत्वारिंशोऽध्यायः॥ 47 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-47-7 स्पर्ध्यं बहुमूल्यम्॥ 1-47-9 विप्रिये कृते त्वां तव गृहे वासं च त्यजेयम्॥ 1-47-11 श्वतकाकीयैः अनुकूलैः॥ 1-47-15 उत्सङ्गे अङ्के॥ 1-47-18 कोपो वा गरीयान्धर्मलोपो वा गरीयानिति कोदिद्वयमुपन्यस्य धर्मलोपमेव गुरुकरोति। कोपो वेति॥ 1-47-22 प्रादुष्कृतः उद्धृतः अग्निहोत्रोऽग्निः यस्मिन्सः। धर्मसाधनत्वाद्रम्यः। भूतादिप्रचाराद्दारुणः॥ 1-47-25 विभावसोः सूर्यस्य॥ 1-47-39 संप्रयोगः संबन्ध। मोघो निष्फलः॥ सप्तचत्वारिंशोऽध्यायः॥ 47 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|